पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमोऽध्यायः प्राक्तनैर्नवभिरध्यायैर्य एवार्थो लक्षितः स एव प्रति- पदपाठैरस्मिन्नध्याये प्रतायते । तथा चाह - 'भूय एव' इति । उक्तमेवार्थं स्फुडीकर्तुं पुनः कथ्यमानं शृण्वति । अर्जुनोऽपि एवमेवाभिधास्यति 'भूयः कथय' (X, 18) इति । इत्यध्याय- तात्पर्यम् । शिष्टं निगदव्याख्यातमिति किं पुनरुक्तेन ? सन्दि- ग्धं तु निर्णेष्यते । श्रीभगवानुवाच - भूय एव महाबाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥ न मे विदुः सुरगणाः प्रभवं न महर्पयः । अहमादिहिं देवानां महर्षीणां च सर्वशः ॥ २ ॥ यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असंमूढः स मर्त्येषु सर्वपापैः प्रतुच्यते ॥ ३ ॥ बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवो भावो भयं चाभयमेव च ॥ ४ ॥ अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ ५ ॥ भूय इत्यादि पृथग्विधा इत्यन्तम् । असंमोहः उत्साहः ॥ १-५॥ 1. B, N,K बिस्पष्टीकर्तु 2. Bध्यायमानमिति