दशमोऽध्यायः महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ ६ ॥ एतां विभूति योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७ ॥ अयं सर्वस्य प्रभव इतः सर्वे प्रवर्तते । इति मत्वा भजन्ते मो बुधा भावसमन्विताः ॥ ८ ॥ मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥ तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥ तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाभ्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ।। 144 175 महर्षय इत्यादि भास्वता इत्यन्तम् । परस्परबोधनया अन्योन्यबोधस्फारसंक्रमणात् 'सर्व एव हि प्रमातारः एक ईश्वर' इति विततव्याप्त्या सुखेनैव सर्वशक्तिक सर्वगत स्वात्मरूपताधि- गमेन2 माहेश्वर्यमेषामिति भावः ॥ ६-११ ॥ 1. S,B, N वितत्य व्याप्त्या 2. S ताधिशयनेन; अधिगमेन 3. After इति भाव: B, N add 'तेषां सततयुक्तानाम्' इत्यतः प्रभृति अध्यायान्ता टीका उडता युगपद्धिवेद्य ।। 'तेषामेत्र' अनुच अर्जुन प्रश्नपद्यानि षट् उल्लिखति । श्रीभगवान् 'अथवा बहुता' इति पर्यन्तानि पद्यनि २३ बक्ति || (continued p. 176)
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२३६
दिखावट