पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

172 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता तव तस्य शक्यप्रदर्शनात् । किं च पूर्वोक्तरीत्या 'भिन्नरुचिहि लोकः' इत्यर्थे 'अरुचिहि लोकः' इति प्रामाणिकप्रयोगापत्तिश्च । अत एवास्वरसात् 'अ शब्दः स्यादभावेऽपि' इति हैमकोशात् अभावार्थकेन अ इत्यव्ययेन नजा वा समासमङ्गीकृत्य व्याख्या- नान्तरमारचयितुं तद्भूमिकात्वेन आक्षेपम् उत्थापयति- नन्विति, इत्यत्व सुधियः प्रमाणम् । 4 कथमनुद्दिश्येत्यादिना अवत्येन ग्रन्थेन एवं विवक्षितमिव - कथमनुद्देश्यस्य स्वात्मतत्त्वस्य याज्यत्वम्? 'आदित्यः प्राय- णीयः पयसि चरुः' इति विधिशेषभूता हि देवता उद्देश्यात्मवा विध्यन्तर्भाविता ह्यसौ उद्देश्यभूता अदितिरिति ।' 'आदित्यः प्रायणीयश्चरुः' इति । संपूर्ण विधिस्वरूपं तु' आ- दित्यः प्रायणीयः पयसि चरुः' इति मीमांसाग्रन्थेषूपलभ्यते । ज्योतिष्टोमे प्रायणीयेष्टिसंबद्धः पयसि संस्कृतश्चरुः होमद्रव्य- विशेषः अदितिदेवताकः इति तदर्थः । तान् प्रति कर्त्रभिप्रायत्वं नास्तीति । प्रतिरत्न कर्मप्रवचनीयः इत्थंभूताख्याने विषयत्ववति वर्तते । तथा च पूर्वोक्तानाम् अल्पेच्छावत्कर्तॄणां विषये ईश्वरप्राप्तिरूपस्य महाफलस्य नास्ति कर्तृगामित्वेनाभिप्रेतत्वम् यच्चात्मनेपदप्रयोजकम् इत्यर्थः । अत्रेदं स्वारस्यम् - येऽप्यन्येति गीताश्लोके यजन्ते श्रद्ध- याऽन्विताः इत्यत्वात्मनेपदं विवक्षितम्, अन्यदेवताकयागजन्यस्य स्वर्गादेरल्पफलस्य कर्तृगामित्वेनाभिप्रेतत्वात् । तथा तत्रैव