पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवयोऽध्यायः 171 कृतव्याख्यानमनूदितम् तव च व्याख्याने औचित्यम् 'अस एवाह' इत्यादिना आविष्कृतम् । - अवेदं चिन्त्यते - 'भिन्नरुचिः' इत्यत भिन्नशब्दो नाम- पदम् ; नञ् तु निपातः । एवं स्थिते कथं तयोः समानयोग- क्षेमता अन्वयबोधे १ अन्यथा 'भिन्न रुचिहि लोकः' इत्यस्मिन्ने- वार्थे 'अरुचिहि लोकः' इति प्रयोगस्यापि प्रामाणिकत्वापत्तेः । एवम् अविधिः इत्यत उक्तबहुव्रीह्याश्रयणं तथा निरुक्तार्थवर्णनं चन व्युत्पन्नम् । न हि भवति अघटपदात् सर्वंघटबोधः प्रामा- णिकः । इत्येवं विचिन्त्येव 'अविधि-पूर्वकम्' इत्यस्य विधि- पूर्वकं न भवतीति अर्थ वर्णयितुं भूमिकामारचयन्नाक्षिपति- ननु द्रव्यत्यागार्थमित्यादिना । वस्तुतस्तु 'न विधिः अविधिः' इत्यनुक्त्वा अन्यो विधिः अविधिः, नानाप्रकारैविधिभिः इति रीत्या विलिखत आचार्य- स्याभिप्रेतमिदमिव - 'नाव नञ्तत्पुरुषः, उक्तदोषात्, अपि तु अ इत्यव्ययेन समासः । अन्येत्यस्यायम् अकारः, न तु वञः । यथोक्तं व्याख्यासुधायाम् (AK, III,iv.10), 'अ विप्र इव भाषसे, इत्यादी 'विप्रवन्न ब्रूषे' इति वक्तृबुबोधयिषितार्थप्रत्ययानुपपत्तेः । किं च अन्यदिति भिन्नमिति चानर्थान्तरं प्रसिद्धम् । 'भिन्नरुचि- हि लोक' इत्यादिषु भिन्नशब्दस्य नाना इत्यर्थे वृत्तिर्दृष्टचरा | इत्थं च तदभिन्नाभिन्नस्य तदभिन्नत्वम् इति रीत्या अइति नावा इति च समानार्थक शब्दौ भवितुमर्हतः इति । परन्तु एतादृशार्थ - कत्वम् अ-शब्दस्य प्रयत्वतः साधनीयं भवति, प्रसिद्धेषु विघण्टुषु