श्रीमद्भगवद्गीता गीतार्थसंग्र होता नन्वेवं यदि बाह्ययागादिनाऽपि ब्रह्मप्राप्तिः, तहि अग्नि- ष्टोमादिष्वपि किम् अन्यो याज्य: १ अभ्युपगमे भेदवादः; वासु- देव एव2 इति चेत्, कथं नापवर्गस्तैः [प्राप्यते ]१ तदर्थमुच्यते- त्रै विद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान् ॥ २१ ॥ 158. सेमराज स्व-तं 4.1 22 ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रवा गतागतं कामकामा लभन्ते ॥ २२ ॥ वैविद्या इत्यादि । ते तमित्यादि । यद्यपि ते मामेव यजन्ते । तथापि स्वर्गमा प्रार्थनया मितं कर्म निजसत्त्व दुर्बल- तथा स्वर्गादिमावेणैव फलेनावच्छिन्दन्ति । अत एवैषां पुनरा- वर्तको धर्मः । एवं ते गतागतं लभन्ते, न तु यागस्य पुनरावृत्ति- प्रसवधर्मा स्वभावः ॥ २१-२२ ॥ तथा हि- अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २३ ॥ 1. S ब्रह्माप्तिः 2. S omits एम
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२१९
दिखावट