पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोऽध्यायः 157 ननु कर्म तावत् कारककलापव्याप्तभेदोद्रेकि कथषभिन्नं भगवत्पदं प्रापयतीति ? उच्यते- - अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम् । मन्त्रोऽहमहमेवाज्यमहमग्रिरहं हुतम् ॥ १७ ॥ पिताहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रमोंकार ऋक् साम यजुरेव च ॥ १८ ॥ गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ।। १९ ।। तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाइमर्जुन ॥ २० ॥ अहं ऋतुरिति अर्जुनेत्यनन्तम् । एकस्यैव निर्भागस्य ब्रह्मतत्त्वस्य परिकल्पित [भेदवत् ] साधनाधीनं कर्म पुनरेकत्वं निर्वर्तयति; क्रियायाः सर्वकारकात्म साक्षात्कारेणावस्थाने भगवत्पदप्राप्ति प्रत्यविदूरत्वात् । उक्तं च- सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी । बन्धयित्री स्वमार्गस्था ज्ञाता सिद्धयुपपादिका ॥ इति मयाप्युक्तम्- (Spk, III, 16) उपक्रमे यैव बुद्धिर्भावाभावानुयायिनी । उपसंहृतिकाले सा भावाभावानुयायिनी ॥ इति । तत्र तत्व वितत्य विचारितच रमेतत् इतीहोपरम्यते । तपाम्यह- मित्यादि अद्वैतकथाप्रसङ्गेनोक्तम् ॥ १७-२० ॥ 1. Somits इति