पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

150 श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेता 'प्रतिष्ठास्थानं संविदात्म हृत्, तत्स्था' इति व्याख्यौ आचार्यः । एवं च प्रकृते जीवस्य प्रतिष्ठास्थानात्मक मधिष्ठानमिति पर्यव- सितम् | हृदीति सप्तम्यर्थ: अधिष्ठानम् । अथवा निष्ठास्थानाधिष्ठानम् इति विवक्षितम् प्रकृते । निष्ठात्मकं नियतं, निष्ठायाः मनःसमाधेर्वा, यत् स्थानं तदेव अधिष्ठानमित्यर्थः । इदमतावधेयम् भगवद्गीताव्याख्याता आनन्दवर्धनः प्रकृतगीताश्लोकव्याख्याने प्रकृतविवादविषयाणि अभिनवगुप्ता- चार्यवाक्यानि 'इन्द्रियाणि' इत्यारभ्य 'नोत्क्रान्तिः शिवदायिनी इत्यन्तम् एवमनुवदति :- - श्रीमदभिनवगुप्तपादा रहस्यार्थान्तरमाहु:- "सर्वद्वा- राणि चक्षुरादीनि संयम्य, रूपादिविषयेभ्यो व्यावत्यं - न तु द्वाराणि विष्ठास्थानादीनि - मनः प्राणसारथिं चित्तम्, इच्छाशक्त्यात्मनि मूति सकलतत्त्वातीते धार- यन्" इत्यादि । - अत्रापि पङ्क्तयस्त्रुटिता इव । तद्ग्रन्थस्थपङ्क्तीनां गीतार्थ- संङ्ग्रहमातृकागतप्रकृतपङ्क्तीनां च परिशोधने इदमत प्रकृते गीतार्थसंग्रहे विवक्षितमिति प्रतिभाति-- सर्वद्वाराणि चक्षुरादीनि इन्द्रियाणि, न तु विष्ठास्थाना- दीनि । हृदि इत्यनेन मनसः विषयसंगमाभावः न तु अधिष्ठानम्, नित्यतं स्थानम् उच्यते । आत्मन: (मनसः शरीरस्य वा) प्राणं, सारथिम् इच्छाशक्त्यात्मनि' इत्यादि । अत च विष्ठास्थानं पायुः ।