सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोऽध्यायः तीर्थे श्वपचगृहे इत्यादि । आहुश्च - जीवन्नेव सद। मुक्तः कृतार्थो ब्रह्मवित्तमः । 149 कुल्यायामथवा नद्यां शिवक्षेत्रेऽपि चत्वये | पर्णं पठति चेत्तेन तरो: कि नु शुभशुभम् ॥ (विवेकचूडामणिः, 555, 560 ) देहकृत सुखदुःखमोहबन्धे इति । तनूकृतसुखदुःखमोहबन्धे इति विवक्षितमिव । सप्तमी योज्येति । त्यजतीति त्यजधातोः शवन्तात् सति- सप्तम्या अर्थ: वाक्यार्थे संयोज्य इत्यर्थः । यथा मृगादेरित्यादि । यथा पुराणे वर्णितं मृगादेः स्मरणं जडभरतादीनां, तत्कृतं तु तेषां समनन्तरजन्मनि मृगत्वम् इत्यर्थः । तेषां तज्जः इत्यादि देहविनिपातक्षणे इत्यन्तम् । अन पदानि विमिश्रितानीव । अथवा प्रायश एवं विवक्षितमिव- 'तेषां देहसद्भावक्षणकृते च तस्य स्मरणे, अनन्तरं "तज्ज: संस्कारोऽन्यसंस्कारप्रतिबन्धी" इति न्यायेन तत्तत्त्वस्मरणे अनन्तरं देहविनिपातक्षणे' इति ॥ ..- श्लो. १२-१४ (व्या) विष्ठास्थानाधिष्ठानमिति । प्रति- ष्ठास्थानात्म कम घिष्ठानमिति यावत् । हृदयशब्दस्य प्रतिष्ठा- स्थानवाचकत्वमुपदर्शितमाचार्येणैव ईश्वरप्रत्यभिज्ञाविमशिन्यां 'हृदयं नाम प्रतिष्ठानम्' (I PV, I, v, 14) तथा 'हृदयस्था' इति पराविंशिकाद्वितीयपद्यव्याख्याने च 'हृदयस्था' इति पद