पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

148 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता -- तस्य भावः सत्यत्वमेव । 'भूतं क्षमादौ.. .. सत्ये देवयोन्यन्त रेऽपि ना' इति, 'भाव: सत्तास्वभाव... जन्मसु' इति च मेदिनीकोशात् । उक्तार्थमेव दर्शयति - तथा विगलितेत्यादिना । विगलितः सकलवितथप्रपञ्चः यस्मात् तस्येति विग्रहः । अनेन सत्यत्वं पारमार्थिकं कीदृशमिति दर्शितम् । सत्यत्वस्येति भूत- भावशब्दार्थं वक्ति । यद्वा पूर्वं भूताः अर्थात् पश्चात् मोक्षदशायां विगलिता ये भावाः वितथप्रपश्चात्मका यस्मात् तस्मात् सत्यस्वरूपात् तत् इति बहुव्री ह्यर्थमेव दर्शयति - विगलितेत्यादिना । उक्तबहुव्रीह्या- क्षिप्तमन्यपदार्थं विशेष्यं दर्शयति – सत्यत्वस्येति । उद्भवं करोति इति यः, स कर्पसंज्ञित इति सम्बन्धः || - प्रलो. ४ (व्या) पुरुषोत्तम इति । इदं च देहभृतां वरः इति मूलपाठमाश्रित्योक्तमिव ॥ श्लो. ५-७ (व्या) प्रमाणभूतश्रुतिविरोधादिति । ज्ञानि- नोऽपि देहत्यजवकालिकधातुदोषेण हेतुना तामसस्येव गति- कल्पने सति ब्रह्म वेद ब्रह्मैव भवति (Mu. U. III, ii, 9) तद्वैतत्पश्यन् वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च ( Br, U. I, iv, 10 ) तस्य तावदेव चिरं यावत्त विमोक्ष्येऽथ संपत्स्ये (Ch.U.VI xiv, 2) इत्यादिप्रमाणभूतश्रुतिवाक्यैविरोधादित्यर्थः । अस्ति हि इति। उक्तार्थे श्रुत्यनुसारी श्लोक इति शेषः ।