पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः 151 यदि विद्यमानपाठस्य साधुत्वं परिरक्षणीयम्, तदा सर्व- द्वाराणि संयम्य मनो हृदि निरुध्य च' इति श्लोक पूर्वार्धस्य समग्रस्य तात्पर्यम् अनेन विषयसंगमाभाव उच्यते, न तु विष्ठा- स्थानाधिष्ठानम् इति वाक्येन दर्शयत्याचार्य इत्यादिरीत्याभ्युप- गन्तव्यम् । एवं च अनेन सर्वद्वाराणि संयम्य इत्युक्त्वा तदन- न्तरमेव मनो हृदि निरुद्धय इत्युपदेशेन विषयेषु मनसः संगमस्य आसक्ते: अभाव उच्यते भगवता, न तु विष्ठास्थानस्य पायोः सर्व- शरीरद्वाराणामिन्द्रियाणाम् उपलक्षणभूतस्य अधिष्ठानम्, अधि ष्ठीयते अनेनेति व्युत्पत्त्या अधिष्ठानं व्यापारनिरोधः प्रकृते विवक्षित इति तात्पर्यमिव भाति । याति जानाति इति । या प्रापणे इति धातुपाठात्, प्रापणस्य गतिपर्यायत्वात्, गत्यर्थानां च धातूनां ज्ञानार्थकत्वा- च्चेति भावः । एवंरीत्या अर्थवर्णनस्य औचित्यं प्रदर्शयति नत्वित्यादिना । अव 'याति जानाति स सद्भावम्' इति व्या ख्या रीतिरियम् आचार्यस्यैवं संसूचयतीव प्रकृते-गीतापद्ये ओमि- त्येकाक्षरमित्यादौ तुरीयपादमाचार्य: प्रायशो 'मद्भावं याति स ध्रुवम्' – अथवा तत्समानमन्यत्-इति पपाठेति । यद्यपि सार्वतिकः पाठः 'स याति परमी गतिम्' इत्येव । तथापि 'य: प्रयाति, स सद्भावं याति नास्त्यत संशयः' इति पाठोऽपि विद्यते इति संदर्शयति बेलवेलकरः । अथवा परमा गतिः वस्तुत ईश्वरभावावाप्तिरेव । तथा च परम गतिमित्यस्यैवार्थो वर्ण्यते आचार्येण याति इत्यादिनेत्यपि वक्तुं शक्यम् । -- निमेषमपि इति । प्राणप्रयाण निमेषमातमपीत्यर्थः । तस्य न किंचित् प्रयाणकालौचित्य पर्येषणमित्यादि । आहुश्च -