पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः 145 मैते इति । एते सृती यो वैत्ति आभ्यन्तरेण क्रमेण पो- गाभ्यासस्वीकृते नेत्यर्थ: । एतच्च वितत्य प्रकाश्यमानं प्रत्थं विस्तारयतीत्यलम् । तस्मादिति - सर्वे ये काला आभ्यन्तरा: 1 तद्विषयं योगमभ्यस्ये: 2 | अस्मद्गुरवस्तु आहुः सर्वानुग्राहकतया मध्ये आभ्य- ●न्तरकाल कृतमुत्क्रान्तिभेदमभिधाय प्रकृतमेव बाह्यकालविषयं 4 मुख्यं' प्रमेयमुपसंहृतम् 'तस्मात्सर्वेषु कालेषु' इत्यादिवा ॥ २७ ॥ वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥ ॥ इति श्रीमद्भगवद्गीतायां अष्टमोऽध्यायः ॥ वेदेष्विति । अत्येति, अभिभवति, सर्वकर्म संस्काराणी भगवत्स्मृत्या विफलीकरणात् । सर्वकर्मपरिक्षये च असौ सुखे- नैव विन्दति परं शिवमिति ॥ २८ ॥ ॥ शिवम् ॥ अन संग्रहश्लोक:- 'सर्वतत्त्वगतत्त्वेन विज्ञाते परमेश्वरे । गीता - 10 - अन्तर्बहिर्न साऽवस्था न यस्यां भासते विभुः ॥ ॥ इति श्रीमहामाहेश्वराचार्य वयं राजानकाभिनव गुप्तपाद विरचिते श्रीमद्भगवद्गीतार्थसंग्रहेऽष्टमोऽध्यायः ॥ N अभ्यन्तराः 1. 2. K अभ्यसेत् 3. S omits अभ्यन्तर- 4. Somits बाह्यकालविषयं 5. N मुख्यप्रमेयं 6. S, B सर्वसर्व (एव) गत -