सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थं संग्रहोपेता ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. ३ (व्या) बृहत्वात् इति । महत्त्वात् इत्यर्थः । 'बृहद्विशालं पृथुलं महत्' इत्यमरः ( III, i, 60 ) 1 बृंहकत्वात् इति । वर्धकत्वात् इत्यर्थः । अर्थद्वयेऽपि ब्रह्मशब्दः बृहिवृद्धौ इति धातोनिष्पन्नो बोध्यः । 146 स्वः इत्यादि । तथा च स्वभावशब्दस्य स्वात्मको भावः इत्यर्थः, न तु स्वस्य भावः इति । अत एव शिवसूत्वम्- 'चैतन्यमात्मा' (I, 1) इति । तथा प्रत्यभिज्ञाकारिकाऽपि- 'आत्माऽत एव चैतन्यम्' (I, v, 12) इति यो विसर्ग इति । अस्य च उत्तरत्वाध्याहार्येण 'स कर्म- संज्ञितः' इत्यनेन संबन्धः । स्वभावस्यैव भूतभावोद्भव करत्वे हेतुत्वं दर्शयति तस्य चेत्यादिना । भूतभावोद्भवकर इति मूले भूतशब्दः पृथिव्यादिभूत- वाचकः; भावशब्दश्च भावयति, जनयति, चित्ते धारयति ज्ञानविषयीकरोति वा इत्यर्थयोगात् प्रमातृपरः; एवं भूतानां भावानां च उद्भवं करोति इति विग्रहार्थमाश्रित्य व्याख्यान- माह - बहिर्भावेत्यादिना निर्मासक इत्यन्तेन । अव चेदं विव- क्षितमिव – 'बहिर्भूतावभासनात्मा बहिर्भूतभावान्तराव- भासनात्मा च यो विसर्गः, क्रमेण भूतानां जडावां, भावानां ब्रह्मादिप्रमातॄणां च उद्भवकारी जडाजडवैचित्यनिर्भासक: इति; भूतभावोद्भवकरमूलानुरोधात्; क्रमेणेत्याचार्यवचनस्वार- -