सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

144 श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेता एवं च सतताभ्यासेन येषां क्लेशं विनैव भगवदाप्तिः तेषां वृत्तमुक्तम् । इदानीम् उत्क्रान्त्या येऽपवर्गं भोगं चेच्छन्ति, तेषां कश्चिद्विशेष उच्यते यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः | प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥ यवेति । अनावृत्तिः मोक्षः । आवृत्तिः भोगाय ॥ २३ ॥ अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ २४ ॥ धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥ अग्निरिति । धूमेति । उत्तरेण, ऊर्ध्वेन; अयनं षाण्मा- सिकम् । तच्च प्रकाशादिधर्मकत्वात् दहनादिकैः शब्दैरुपचयंते । अतो विपरीतं विपर्ययेण तव चन्द्रमसो भोग्यांशानुप्रवेशात् भोगायावृत्तिः ॥ २४-२५ ॥ शुक्लकृष्णे गती होते जगतः शाश्वते मते । अनयोर्यात्य नावृत्तिमाद्ययाऽऽवर्ततेऽन्यया ॥ २६ ॥ शुक्लकृष्णे इति । अन्योर्तयोर्मध्यादाद्यया अनावृत्तिः मोक्षः, अन्यथा भोगः ॥ २६ ॥ नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥ 1. B,N, K (D) इदानीं पुनः