पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः 'ते ब्रह्म तद्विदुः' इत्यादिना यत् भगवता उपक्षिप्तं तत् प्रश्ननवकपूर्वक निर्णयति अर्जुन उवाच - - - किं तद् ब्रह्म किमध्यात्म कि कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैव किमुच्यते ॥ १ ॥ अधियज्ञः कथं कोऽल देहेऽस्मिन् मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः २ ॥ कि तद् ब्रह्मेति । अधियज्ञ इति । अधियज्ञः कथम् ? [कश्च] 'कोऽव देहे' ? तिष्ठति इति शेषः ॥ १-२ ।। श्रीभगवानुवाच- अक्षरं ब्रह्म परमं स्वभावोऽध्यात्म मुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ३ ॥ अक्षरमिति । बृहत्त्वात् बृंहकत्वाच्च परं ब्रह्म । अत एव बध्यात्मशब्दवाच्यं, यतः स्वः अनिवृत्तिधर्मा चैतन्याख्यो' भावः । तस्य च चैतन्यस्वभावस्य ब्रह्मणोऽपरिच्छिन्न बाह्य- लक्षणतया क्रोडीकृतविश्वशक्तेः ऐश्वर्यलक्षणात् स्वातन्त्र्यात् 1. S पूर्वं 2. B निर्णाययति; N निर्वर्णयति 3. B,N निवृत्तिधर्मा; K अनिवृत्तधर्मा 4. B चंतन्यभावः