पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

134 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता बहिर्भावावभासनात्मा1 बहिर्भूतभावान्तरावभासनात्मा2 च यो विसर्गः क्रमेण भूतानां ब्रह्मादिप्रमातॄणां भावानां जडानामुद्भव- कारी जडाजडवैचित्यनिर्भासकः । तथा भूतभावस्य विगलित- सकल वितथप्राश्वस्य सत्यत्वस्य उद्भवं करोतीति [स कर्म- संज्ञितः] ॥ ३ ॥ अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवाल देहे देहभृतां वरः (१) ॥ ४ ॥ अधिभूतमिति । क्षरति स्रवति परिणामादिधर्मेण इति क्षर: 3 घटादिः पदार्थग्राम उच्यते । पुरुषः आत्मा । स च अधि- दैवतम्, तत्र सर्वदैवतानां परिनिष्ठितत्त्वात् । अत एव अशेष- यज्ञभोक्तृत्वेन यज्ञान् अवश्यकार्याणि कर्माणि अधिकृत्य यः स्थितः पुरुषोत्तमः सः अहमेव । अहमेव च देहे स्थित इति प्रश्नद्वय मे केन यत्नेन निर्णीतम् ॥ ४ ॥ अथ योऽवशिष्टः प्रश्नः 'कथं प्रयाणकाले ज्ञेयोऽसि इति तं निर्णयति- अन्तकालेऽपि मामेव स्मरन् मुक्त्वा कलेबरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ५ ॥ यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ६ ॥ 1. B, N - मासनात्सः 2. / S - भावान्तरभासनात्मा यो विसर्ग: 3. Somits क्षरः