पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता श्लो. २७ (व्या) मोहानुभवसमाप्तौ इति । प्रलयकाली- नेत्यादिः । अनेन च 'सर्गे' इति मूलं व्याख्यातम् । अथवा मो- हानुभवासमाप्ताविति विवक्षितम् । एवं च द्वन्द्वमोहस्य सवा- सनस्यासमाप्तौ सत्यां, पुनः सर्गे इत्यर्थः ॥ 132 श्लो. २८-३० (व्या) यतो येषामित्यादि । अनेदं विव क्षितमिव – 'यतो येषाम् आजन्म जन्मनः प्रभृति पूर्वमेव प्रया- णात् पूर्वकालेऽपि भगवत्तत्त्वस्मरणं, ते अन्तकाले परमेश्वर संस्मरेयुः' इति । किम् जन्मासेवनयेति । जन्मप्रभृति आसेवतया निरन्तरं सेवनया इत्यर्थः । यथाऽऽहु:- 'स तु दीर्घकालनैरन्तर्यसत्काराऽऽसेवितो दृढभूमिः (YS, I, 14) इति ॥ संग्रहश्लोके-येनेति । यस्मात् कारणात् इत्यर्थः । यस्मात् कारणात् भक्तिः साधनेच्छासमुचितां मोक्षसाधन विषय केच्छायाः अर्थात् तत्परिपूर्त: अनुगुणाम् आशां परिपूरयेत्, तस्मात् कार- णात् इयं कल्पमञ्जरी इत्यन्वयः ॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्यां सप्तमोऽध्यायः ॥