पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोऽध्यायः 131 श्लो. १६-१९ (व्या) अभिलण्यामीति । अभिपूर्व कात् लषः' (PA, III, i, 70 ) इति भ्वादेर्लष: 'वा भ्राश वैकल्पिक: श्यन्; अभिलषा मीत्यर्थः ॥ ..... श्लो. २०-२३ (व्या) मूले 'कामैस्तैस्तैर्हतज्ञानाः प्रपद्य- न्तेऽन्यदेवता:' (श्लो. २०) इत्युक्त्वा 'श्रद्धयाचितुमिच्छति' (२१) इत्युक्तम् । तथा च अव काममयी श्रद्धैव प्रकृता । 'ता- मेव' इत्यस्य (२१) 'यां यां तनुम्' इति पूर्वार्धे निर्दिष्टां तां तनु- मित्यर्थः । विदधामि, विशेण अन्यव्यावृत्तविशेषवत्वेन दधामि धारयामि। तादृश्यास्तनोः भक्तनिष्ठपूर्वोक्त श्रद्धा मयत्वात् श्रद्धास् इत्यभेदोक्तिः । तथा च पूर्वार्धे श्रद्धयेति तृतीयार्थोऽभेदः, सच तन्वामन्वेति । एतत् सर्वं मनसि विधाय तात्पर्यार्थमाह व्या- ख्यायाम् - तत्समुचितामेव ममैवावान्तरतनुमिति । इन्द्रादिभावनातात्पर्येणेति । भावना, भावः । तथा च 'इन्द्रो भविष्यामि' इति तात्पर्येणेत्यर्थः । अथवा इन्द्रादिभववतात्पर्येण इत्यर्थः । अथवा इन्द्रादिभवनतात्पर्येण इत्येव वा विवक्षितम् । इन्द्रादीनां यानि भवनानि वैजयन्तादीनि तत्प्राप्त्युद्देशेनेति तदर्थः ॥ । श्लो. २४ (व्या) परिहारेणेति । फले हेतौ तृतीया । परि- हारार्थमित्यर्थः । अथ वा सहार्थंयोगे तृतीया । परिहारपूर्वक - मित्यर्थः । तस्य, साधकस्य, तत् आलम्बनम् । मुक्तभावेन इति पुनरपि फले हेतौ तृतीया; मुक्तभावाय मुक्तये इत्यर्थः । अथवा तृतीयार्थोऽभेदः । स च धात्वर्थे पर्यवसाने फलरूपेऽन्वेति । मुक्त्या- त्मकफलं भवतीत्यर्थः ॥