श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता श्लो. १०-११ (व्या) इत्याशयेनेति । इति मूलस्याशयं प्रदर्शयितुमित्यर्थः ॥ 130 श्लो. १२-१३ ( व्या) सत्त्वादीनीति | अपि वामेद- माचार्य व्याख्यानं ज्ञापयति यत् मूले सात्त्विकादिशब्दाः स्वा- र्थिकप्रत्ययान्ता अभिमता आचार्येण इति ? अपि वा सत्त्वादीना भगवन्मयत्वात् सात्त्विकादिभावानां भगवतः सकाशादुत्पत्ति- रुच्यते इति दर्शनपरोऽयं ग्रन्थः । संवेदयते इति । णिजन स्वार्थे । 'वासुदेवः सर्वम्' इति ज्ञानेनेति । अस्य च अग्रिमेण 'इति बुद्धया' इत्यनेन सामानाधिकरण्येनान्वयः । अथ वा 'ज्ञानेन' इति संपातायातम् । 'वासुदेवः सर्वम्' इत्यस्य 'प्रतिपद्यते' इत्य- नेवान्वयः | स च वासुदेवः सर्वमित्यस्यार्थवर्णनपर: 'यो बहु दुर्लभः' इति ग्रन्थः । तत्र च योऽसावित्यन्वयः । बहुजन्मोपभोगे- त्यादिना प्रतिपद्यते भगवत्तत्त्वमित्यन्तेव बहूनां जन्मनामन्ते ज्ञान- वान् मां प्रपद्यते इत्यस्य व्याख्यानम् । ..... एवमित्यादि तिभिर्गुणमयैरितिपद्यव्याख्या रविणा ज्योतिर्मयेन प्रकाशित इत्यत्न यथा ज्योतिष एव वस्तुतः प्रकाश- कत्वमुक्तं भवति, तथैव गुणमयैर्भावैमोहितमित्यवापि मोहकत्वं गुणानामेवेति पर्यवस्थति इति कृत्वाऽऽह-गुणैर्मोहित मिमिति ॥ श्लो. १४ (व्या) देवः क्रीडाकर इति । देवशब्दस्य दिवु क्रीडायामिति धातोनिष्पन्नत्वादिति भावः ॥
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१९१
दिखावट