CRA 129 सप्तमोऽध्यायः - भिद्यमानां प्रकृतिं पूर्व वाक्यार्थ मुख्य विशेष्यभूतां परामृशति इत्यत्न न कोऽपि सन्देहो भवितुमर्हति । तथा च आचार्यस्य ईदृशी सैव इत्यादिव्याख्यारीतिः इदं संसूचयतीव - अपरेयमिति पद्ये आचार्याभिमतः पाठः 'अपरेयमितोऽनन्याम्' इति, अथ वा तत्समानयोगक्षेमोऽन्यः इति; न तु 'अपरेयमितस्त्वन्याम्' इति सार्वत्रिक: रामकण्ठेवापि समादृतः पाठ आचार्याभिप्रेत इति ॥ श्लो. ६-७ (व्या) वासुदेवो भूतः सर्वस्य प्रभवः प्रलयश्चेत्यनेन न केवलं 'कृत्स्नस्य जगत' इत्यादिमूलभागो व्याख्यातः, अपि तु वासुदेवशब्दार्थोऽपि । एवं च मूले अहंशब्दवाच्यो वासुदेवः परं ब्रह्मेति सिद्धमिति हृदयम् ॥ श्लो ८ (व्या) यः शब्द इति इति । अनेन प्रतीकधारणेन ज्ञायते 'प्रणवः सर्ववेदे यः शब्दः' इत्याचार्याभिमतः पाठव इति । सार्वत्विकस्तु पाठः रामकण्ठीयश्च 'सर्ववेदेषु शब्दः' इत्येव । अथवेत्यादिद्वितीयव्याख्यानानुसारेण खे यः शब्दः सर्व- वेदे च प्रणवः सोऽहमित्यर्थः । प्रकृष्टो नवः प्रणवः अत्यन्तं नूलः । स च शब्दविशेषणम् । शब्दस्य सामान्यतः संयोगादि- जन्यतया तदजन्यत्वमेव तस्यात्यन्तनूत्नत्वम् । तदाह संयोग- विभागादिसामग्रयन्त ररहितः इति तथा अनाहताख्य इति च विशेषणद्वयेन । गगनगुणतया तथा ब्रह्मगुहागगनगामी इति च खे इति मूलस्य व्याख्या | सकल श्रुतिग्रामानुगामी इति सर्ववेदेषु इत्यस्य व्याख्या | श्रुतिग्रामानुगामिन: शब्दस्य संयोगाद्यजन्यत्वोक्त्या अनाहतत्वोक्त्या च, कण्ठता त्वभिघातजन्यत्व हेतुक वेदपक्षक- पौरुषेयत्वानुमानं वस्तुतोऽनुमानाभास इति ध्वनिः ॥ गीता-9
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१९०
दिखावट