सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोऽध्यायः 127 नाहमिति । वेदाहमिति । सर्वेषां नाहं गोचरतां प्राप्नोमि ॥ २५-२६ ॥ चनु च कर्मण्येव क्रियमाणानि प्रलयकाले मोक्षं विदधते । अन्यथा किमिति महाप्रलय उपजायते इत्याश ङ्कायामारभते 2- इच्छा द्वेषस सुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि संमोहं सर्गे यान्ति परंतप ॥ २७ ॥ इच्छेति । इच्छाद्वेषक्रोध मोहादिभिस्तावन्मोहात्मक एव स परं स्फोतोभावमुपनीयते, येन प्रकृतिजठरान्तर्वति समग्रमेव जगत् निजकार्यकरणमात्राक्षममेव प्रसुप्ततामवलम्बते; आमोहं वासनानुभवात्; प्रतिदिनं रातिसमये सौषुप्तवत् । तावता विमुक्तरूपता; मोहानुभवसमाप्ती पुर्नविचित्रव्यापार- संसारदर्शनात् ॥ २७ ॥ येषां त्वन्तं गतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ २८ ॥ जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्म कर्म चाखिलम् ।। २९ ।। साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ३० ॥ ॥ इति श्रीमद्भगवद्गीतायां सप्तमोऽध्यायः ॥ 1. S विदधति; B, N प्रविदधति 2. B मारभ्यते; N -मिदमारभ्यते