पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

126 श्रीमद्भगवद्गीता गीतार्थसंग्रहो रेता सते । अतो मत एत्र कामफजमुपादश्ते । कि तु तस्यान्तोऽ- स्ति, निजयेत्र वासनया परिमितीकृतत्त्वात् । अत एवेन्द्रादि- भावनातात्पर्येण यागादि कुर्वन्तस्तथाविधमेव फजमुपाददते । मत्प्राप्तिपरास्तु मामेव । २०-२३ ॥ ननु सर्वगते भगवतत्वे किमिति देवतान्तरोपासकाना मितं फलम् १ उच्यते- - अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४ ॥ अव्यक्तमिति । ते खलु अाबु द्धत्त्वात् मत्स्वरूपं पार- माथिकम् अविद्यमानव्यक्तिकं न प्रत्यभिजानीते | अपि तु निज- कामनास मुविताकार विशिष्ट ज्ञानस्वभाव व्यक्तिमेवापत्नं वि दन्ति नान्यथा । अत एव व नाम्नि आकारे वा कश्विद्ग्रहः । किंतु सिद्धान्तोऽयमत्र - यः कामनापरिहारेण यत्किञ्चिद्देवतारूप- मालम्बते तस्य तत् शुद्धमुक्तभावेन पर्यवस्यति । विपर्ययात्तु विपर्यय: 4 ॥ २४ ॥ नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् २५ ॥ वेदाई समतीतानि वर्तमानानि चार्जुन | भविष्यन्ति च भूतानि मां तु वेद न कश्चन ॥ २६ ॥ 1. 2. 3. 4. S-पासते B.N स्वभाव SB मुक्तभावे S, B, N add इति