सामग्री पर जाएँ

पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोऽध्यायः त्रिभिर्गुणमयैर्भारेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ १३ ॥ ये चेति । त्रिमिरिति । सत्त्वादीनि मन्मयानि, न त्वहं सन्मयः । अत एत्र च भगवन्मयः सर्वं भगवद्भावेन संवेदयते, व तु नानाविधपदार्थविज्ञाननिष्ठो भगवत्तत्वं प्रतिपद्यते इति सकलमानसावर्जक एष क्रमः । अनेनैव चाशयेन वक्ष्यते 'वासु- देवः सर्वम्' इति ! ज्ञानेन यो बहुजन्मोपभोगजनित कर्मसमता- समनन्तरसमुत्पन्न परशक्तिपातानुगृहीतान्तःकरण: असो प्रति- पद्यते भगवत्तत्त्वं2 'ननु' सर्वं वासुदेवः' इति बुद्धया, स महात्मा स च दुर्लभ इति । एवं ह्यबुद्धयमानं, 4 प्रत्युत सत्त्वादिमिर्गुणैः मोहितमिदं जगत् गुणातीतं वासुदेवतत्त्वं नैवोपलभते ॥१२-१३ 123 कथं खलु सत्त्वादिमानस्थिता भगवतस्तत्त्वं न विदुः इत्याह- देवी ह्येवा गुणमयी मम मःया दुरत्यया । मामेव ये प्रपद्यन्ते मायामतितरन्ति ते ॥ १४ ॥ दैवीति । देवः क्रीडाकरः, तत्व भवा देवी क्रीडा ममेय- मित्यर्थः । तेन सत्त्वादीनी वस्तुतः संविन्मात परब्रह्मानतिरिक्त तायामपि यत् तदरिक्ततावगमनं तदेव गुणत्वं भोक्तृतत्त्व- पारतन्त्र्यं भोग्यत्वम् । तच्च भेदात्मकं रूपं संसारिभिरनिर्वा- 1. K adds another इति 2. S, Bomits भगवत्तत्त्वम् 3. K omits ननु 4. B, N हि बुद्धयमानम् 5. B.N तदतिरिक्तभावगमनम्