पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

124 श्रीमद्भगवद्गीता गीतार्थं संग्रहोपेता च्यतया तान् प्रति मायारूपम् । अतो ये परमार्थब्रह्मप्रकाश- विदः ते तदनतिरिक्तं विश्वं पश्यन्तो गुणानां सत्त्वादीनां गुण- तालक्षणां भेदावभासस्वभावां मायाम् अतितरन्ति इति 'मामेव' इत्येवकारस्याशयः । ये तु यथास्थितं भेदावभासमात्रं विदुः, ते मायां नातिकामन्ति । तद्युक्तमुक्तम् 'न त्वहं तेषु' इति ॥ १४॥ व मामिति । ये च मां सत्यपि अधिकारिणि काये नाद्रियन्ते ते दुष्कृतिनः नराधमाः मूढाः, आसुराः तामसा: इति मायामहिमैवायम् ॥ १५ ॥ 1. 2. न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ।। १५ ।। चतुर्विधा भजन्ते मां जनाः सुकृतिनः सदा । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥ तेषां ज्ञानी नित्ययुक्त एकभक्तिविशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ १७ ॥ 3. उदाराः सर्व एवैते ज्ञानी खात्मैत्र मे मतः । आस्थितः स हि युक्तात्मा मामेवानुत्तनां गतिम् ॥ बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ १९ ॥ B यथास्थित भेद- S नातिवर्तन्ते Somits afe