पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोऽध्यायः रसोऽहमप्सु कौन्तेय प्रकाशः शशिसूर्ययोः । प्रणवः सर्ववेदे यः (१) शब्दः खे पौरुष नृषु ॥ ८ ॥ रसोऽहमप्स्विति । सर्वतास्वाद्यमानो योऽनुद्भिन्न मधुरा- दिविभाग: सामान्यः सोऽहम् । एवं प्रकाश: मृदुत्वचण्डत्वादि- रहितः । खे आकाशे । यः शब्द इति सर्वस्यैव शब्दस्य नभोगुण- स्वात् अवावधारणम् । [अथवा] यः केवलं गगनगुणया ध्वनि- संयोग विभागादिसामग्रघन्तररहितः अवहितहृदयैः ब्रह्मगुहागग- नगामी योगिगणैः संवेद्यः अनाहताख्यः सकलश्रुतिग्रामानुगामी 3 तत् भगवतस्तत्त्रम् | पौरुषम्, येव तेजसा पुरुषोऽह (य) मिति सार्वभौमं प्रतिपद्यते 4 ॥ ८ ॥ पुण्यः पृथिव्यां गन्धोऽस्मि तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ९ ॥ 121 पुण्य इति । यो धरायां' केवलधर्मतया गन्धगुणः स स्त्र- भावपुण्यः । पूत्युत्कटादीति' तु भूतान्तरसंबन्धात् । उक्तं च- तु दृढं भूमिगुणाधिक्याद् दुर्गन्ध्यग्निगुणोदयात् । जडमम्बुगुणौदार्यात् इत्यादि ।। ९ ।। 1. N मानयोरनुद्भित्र- 2. S,B, N केबलगगन- 3. B श्रुतिमार्गानुगामी 4. N प्रतिपाद्यते 5. S, B धरायाः 6. S, B, N प्रत्युत्कटत्यादीनि