पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

120 श्रीमद्भगवद्गीता गीतार्थं सङ्ग्रहोपेता भूमिरिति । अपरेति । इयमिति प्रत्यक्षेण या संसारा- वस्थायां सर्वजनपरिदृश्यमाना सा चैकैव सती प्रकाराष्टकेन भिद्यते इति एकप्रकृत्यारब्धत्वादे कमेव विश्वमिति प्रकृतिवादे- इपि अद्वैतं प्रदर्शितम् । सैव जीवत्वं पुरुषत्वं प्राप्ता परा समैव नान्यस्य च । सा उभयरूपा वेद्यवेदकात्मक प्रपञ्चोप- रचनविचित्रा, तत एवं स्वात्मविमलमुकुर तलकलित सकलभाव- भूमिः स्वस्वभावात्मिका सततमव्यभिचारिणी प्रकृतिः । इदं जगत्, भूम्यादि । ४.५ ॥ एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ६ ॥ मत्तः परतरं नान्यत् किंचिदस्ति धनञ्जय | मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इत्र ॥ ७ ॥ एतद्योनीति इति । मत्तः इति । उपधारय - अभ्या- साहितानुभव क्रमेण 2 आत्मसमीपे कुरु । एवं च त्वमेवोपधारय यत् 'अहं वासुदेवो भूत: 3 सर्वस्य प्रभवः प्रलयश्व' । अहम्' इत्य- नेन प्रकृतिपुरुषपुरुषोत्तमेभ्यो व्यतिरिक्तोऽपि ईश्वरः सर्वथा सर्वानुगतत्वेन स्थित इति सांख्ययोगयोर्नास्ति भेदवादः इति प्रदर्शितम् । सूत्रे मणिगणा इव - यथा तन्तुरनवधियमाणरूपो- ऽपि अन्तर्लीनतया स्थितः, एवमहं सर्वत्र ॥ ६-७ ।। 1. Somits सा 2. - 3. 4. B अभ्यासानुभव- S,K वासुदेवीभूतः B, N omit the sentence अहं, शतम्