पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोऽध्यायः श्रीभगवानुवाच- मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रितः । असंशयं समग्र मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥ ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा न पुनः किंचिज्ज्ञातव्यमवशिष्यते ॥ २॥ मध्यासक्तेति, ज्ञानमिति । ज्ञानविज्ञाने ज्ञानक्रिये एव । ततो न किञ्चिदवशिष्यते, सर्वस्य ज्ञेयजातस्य ज्ञानक्रियानिष्ठ- त्वात् । १-२॥ मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ३ ॥ मनुष्याणामिति । अस्य च वस्तुनः सर्वो न योग्यः इत्य- नेन दुर्लभत्वात् यत्न सेव्यतामाह' ॥ ३ ॥ भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥ अपरेयमितोऽनन्यां (१) प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥ 1. N यत्नः सेव्यतामित्याह ।