पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता (व्या) अवलम्बते इति । अवलम्बेतेति यावत् । कष्टयोगादिनेति । कष्टसाध्येन निरीश्वरेण योगादिनेत्यर्थः । वक्ष्यति च (श्लो ४९, अवतारिकायाम्) 'व च निरीश्वरं कष्ट- योगमात्रं संसिद्धिदम्' इति ।। 116 श्लो. ३० (व्या) आत्मनीति सप्तम्यर्थाधिकरणत्वस्य ग्राह्यतायां धात्वर्थे एकीकरणे चान्वयः । ग्राह्यतेति । तद्ग्राह्यते- त्यर्थः । तत्पदवाच्य आत्मा || श्लो. ३१ (व्या) भावांश्च मयि पश्यति इति । य इति पूर्वत्राक्यादनुषज्यते । तत् तेषामिति । तस्मात् कारणात् तेषां भावावामित्यर्थः ।। श्लो. ३२ (व्या) न लिप्यते इति । एतेन इदं ज्ञायते यत् प्रकृतगीताश्लोके चतुर्थपादं स योगी नैव लिप्यते इति पपाठेव, व तु 'स योगी मयि वर्तते इति यश्च पाठः सार्वत्रिकः रामकण्ठीयश्च । अथवा मयि वर्तते इत्यस्याहंविमर्शात्मवि निर्लेपे चिदात्ममावे प्रतिष्ठितो भवति इत्यर्थं मनसि कृत्वा तादृशप्रतिष्ठायाः फलं दर्शयति नैव लिप्यते इति ॥ श्लो. ३४ (मू) साम्येनेति । साम्यं च समदर्शनमेव । तृती- यार्थ. अभेद: योगेऽन्वेति । (व्या) योऽयमित्यादि, परोक्षायमाणमित्यादि । यद्यपि यो व्यमिति मूलेन साम्याभिन्नो योगो दर्शितः । तथापि 'साम्यं च ब्रह्मैव' इति तत्व ब्रह्मात्म कसाभ्ययोगस्यैव निर्देशः, अर्थात्