षष्ठोऽध्यायः 117 ब्रह्मण एव निर्देश इति पश्यतः आचार्यस्यैवं विलिखनसंगति- रिति भाति ॥ श्लो. ३७ (व्या) उपायान् संश्रित्येति । तथा च मूले आयतः इति पञ्चम्यास्तसि:; पञ्चमी च ल्यब्लोपे कर्मणि च बोध्या इत्यभिप्रायः ॥ ... श्लो. ३८-४१ (व्या) यदि इति । अस्य च न हीयते इत्यनेनान्वयः । परलोकवाघाय इति । -बाधायाम् इति विवक्षितमिव । सति सप्तमी । अप्रतिष्ठितस्य कृते परलोकस्यापि बाधितत्वा- दिति अभिप्रायः ॥ श्लो. ५-४७ (व्या) जिज्ञासुरपि इति मूले अपिः एवकार्थे । तथा च 'बलवानेव जयति' इत्यादौ बलमात्रस्य जय हेतुत्वमि- वात्रापि जिज्ञासामात्रस्य शब्दब्रह्मातिवर्तन हेतुत्वमिति दर्शयति व्याख्यायी योगजिज्ञासामात्रेणैवेति । (व्या) शब्दब्रह्मेति मूलस्य बृंहति वर्धयति - बृहि वृद्धी इति धातुः भ्वादिः अत्र अन्तर्भावितण्यर्थः इति ब्रह्म; शब्द- स्य मन्त्रात्मकस्य वर्धक इति व्युत्पत्त्या मन्त्रशब्दवर्धको व्यापा- रविशेषो मन्त्रस्वाध्यायरूप इत्यर्थः । तदाह व्याख्याया- मन्त्र- स्वाध्यायादिरूपमिति । आदिना कर्मानुष्ठानसंग्रहः; स्वाध्याय- स्यास्वीकारे तत्प्रयुक्त वर्मानुष्ठावस्याप्यसंग्रहात् ||
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१७८
दिखावट