पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बष्ठोऽध्यायः 115 चेतसा' इत्याचार्यः प्रायशः पपाठ इति ? कुतः? एतच्छ्लोका- वतरणिकायामाचार्यो: 'एषु श्लोकेषु बहुतरविशेषणैः ब्रह्मस्वरूपं निरूप्यते' इत्युक्ततया तदनुसारेण 'तं विद्यात्' 'स योक्तव्य.' इत्यनयोः क्रमशः 'तमात्मानं विद्यात्' 'स आत्मा अभ्यसनीयः' इत्यर्थस्य वर्णनीयत्वात्, तत्र च 'योगः' इति प्रथमान्तपाठस्य सार्वत्विकस्य न सम्यगाञ्जस्यं भवतीति भाति । योगे इत्यस्य योगे संबन्धे, अर्थात् प्रकरणाचव चिदात्मनः संबन्धे प्राप्तौ सत्यामित्यर्थः । अथ वा यदि प्रथमान्तपाठे आग्रहः तदा परचिदा- त्मनो योगगम्यत्वात् योगत्वोपचार इत्यादिरीत्या नेयम् । 19 योगेऽनिर्विष्णचेतसा इति मूले अनिविण्णचेतसा इति पदविभागमाश्रित्य तदर्थम् 'अनिर्विष्णम् उपेयप्राप्ती' इत्यादि- ग्रन्थेन वर्णयित्वा, 'निर्विष्णचेतसा' इति पदविमागमाश्रित्यापि तत्तात्पर्य माह - दृढ उरमित्यादिना ॥ श्लो. २५-२६ (अ) कामानां त्यागे उपाय इति। आचा- र्यस्य वचनमिदमेवं संसूवयतीव, यत् गीतायां पंचविशे पद्ये द्वितीयपादे 'कामांस्त्यक्तुम्' इति आचार्यः पपाठ इति । परन्तु सार्वत्रिकः रामकण्ठीयश्च पाठ: 'कामांस्त्यक्त्वा' इत्येव । (व्या) त्यागग्रहणादिकं न चिन्तयेत् इति । एतदादिकं संकल्पे न कुर्यादित्यर्थः । तथा च संकल्पप्रभवाः कामा नोस- रस्यन्ते इति तात्पर्यम् ॥ श्लो. २७-२९ (अ) न चेति । चैवेत्यन्वयः । प्राप्य मिति । प्राप्तव्यमित्यर्थः ।