पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता श्लो. ८ (मू) कूटस्थ इति । कूट: गिरिशृङ्गं, तद्वत् रागद्वेषादि मेघेभ्यः अन्नत्येव अचांचल्येन च तिष्ठतीति कूटस्थः । 114 (व्या) प्राग्युक्त्युदितमिति । प्राक् पूर्वतनप्रन्थे युक्त्या मुक्तिपूर्वकम् उदितम्, उक्तमित्यर्थः ॥ श्लो. ९ (व्या) संसारातरतीति । संसारादुत्तरतीत्यर्थः । श्लो. ११-१६ (अ) चित्तसंयम इति । चित्तं संयमयति इति चित्तसंयमः | उपायविशेषणमेतत् । अथवा चित्तसंयमे इति छेदः । निमित्तात् कर्मयोगे सप्तमी। चित्तसंयमार्थमित्यर्थः । (व्या) कालस्थेयें इति । कालविधायकस्य नाडीकोशस्य अष्टाङ्ग योग शास्त्र प्रसिद्धस्य स्थैर्ये सतीत्यर्थः । अथवा अपि 'कायस्थैर्ये' इति विवक्षितम् १ श्लो. १९ (व्या) न किंचिदपि स्पृहयते इति । किशब्दा- र्थस्य ईप्सिततमत्वविवक्षया कर्मसंज्ञा परा सती पूर्वी 'स्पृहेरी- प्सित:' ( PA, I, iv, 36) इति प्राप्त संप्रदानसंज्ञां बाधते इति बोध्यम् । न कमपि विषयमनिशयेन इच्छति आत्मार्थमिति व्यज्यते, आत्मनेपदस्वारस्यात् । तथा च लोकसंग्रहार्थं कस्मै- चित् स्पृहाम् ईषत् करोति इति तात्पर्यम् ॥ श्लो. २१-२४ (अ) व्यतिरेक इति । 'अस्य स्वरूपस्य' इत्यादिः । । (व्या) उपेयप्राप्ताविति योगपदार्थविवरणमिव । अपि ना- मेदं सूचयति यत् चतुर्विंशे पद्ये चतुर्थपादम् 'योगेऽनिविण्ण-