षष्ठोऽध्यायः यथा दीपो नित्रातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मनि ॥ २० ॥ 105 यथेति । यथा निवातस्थो दीपो न चलति एवं योगी । चलवमस्य विषयादीनामर्जनादयः प्रयासाः ॥ २० ॥ इदानीं तस्य स्वस्वभावस्य ब्रह्मणो बहुतरविशेषणद्वारेण स्वरूपं निरूप्यते [यः ] तीर्थान्तरकल्पितेभ्यश्च रूपेभ्यो व्यतिरेक:- यत्रोपरमते चित्तं निरुद्धं योगसेवनात् । यल चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २१ ॥ सुखमास्यन्तिकं यत् तद्बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैत्राय स्थितश्वलति तत्रतः | २२ ॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिस्थितो न दुःखेन गुरुणापि विचाल्यते ॥ २३ ॥ तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् । स निश्चयेन योक्तव्यो योगे(१) ऽनिर्विण्णचेतसा ॥ २४ ॥ - यत्वेत्यादि अनिविण्णचेतसा इत्यन्तम् । यन मनो निरुद्धम् उपरमते स्वयमेव । आत्यन्तिकं, विषयकृत कालुष्याभावात्, सुखं यत्र वेत्ति । अपरो लाभो धनदारपुत्रादीनां संनियोग- लब्धश्च योगः; अन्यत्र सुखधीनिवर्तते च इनि वस्तुस्वभावोऽय- मित्यर्थः । न विचाल्यते, विशेषेण न चाल्यते; संस्कारमात्रेणैवास्य प्रथमक्षणमात्रमेव चलनं कारुण्यादिवथात् न तु मूढतया 'विनष्टों बताहम् । कि मया प्रतिपत्तव्यम्' अपि तु , 1. Somits निवातस्थो
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१६६
दिखावट