श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता श्चेन्द्रियक्रिया येन यता: नियमं नीताः । धारयन् यत्नेन । नासिकाग्रस्यावलोकने [ सति] दिशासनवलोकनम् । मत्परमतया युक्त आसीत इत्यर्थ: । एवमात्मानं युञ्जतः समादधतः शान्तिर्जायते, यस्य संस्थापर्यन्तकाष्ठा मत्प्राप्ति ३ ॥११-१६॥ 104 योगोऽस्ति नैवात्यशतो न चैकान्तमनश्नतः । न चातिस्वप्नशीलस्य नातिजा गरतोऽर्जुन ।॥ १७ ॥ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ १८ ॥ योगोऽस्तीति । युक्ताहारेति । बाहारेषु' आहिमाणेषु विषयेषु' । विहारः उपभोगाय प्रवृत्तिः । तस्याश्च युक्तत्वं नात्यन्तासक्तिनत्यन्तपरिवर्जनम् । एवं सर्वत्र । शिष्टं स्पष्टम् । 'जागरत' इत्यादि मुनेः प्रमाणत्वात् वेदवत् । एवमन्यत्वापि ॥ १७-१८।। यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा । १९ ।। यदेति । अस्य च योगिनश्चिह्नम् आत्मन्येव नियतमना न किंचिदपि स्पृहयते ॥ १९ ॥ 1. N आसीत् 2. S omits इत्यर्थः 3. K - प्राप्तिर्योगोऽस्तीति B,N योऽपि आहारेषु Bomits विषयेषु 4. 5. 6. S, K (n) उपयोगाय प्रवृत्तिः 7. N जायत इति मनःप्रमाणत्वात् ।
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१६५
दिखावट