पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽध्यायः 103 ननु 'जितात्मनः' इत्युक्तम्, तत्कथं तज्जय ? इत्याशङ्कय आरुरुक्षोः कश्चिदुपाय: कायसमत्वादिक: चित्तसंयम उप- दिश्यते- योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ ११ ॥ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिन कुशोत्तरम् ॥ १२ ॥ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १३ ॥ समं कायशिरोग्रीवं धारयन्नवलं स्थिरः । संपश्यन् नासिकाग्रं स्वं दिशवानवलोकयन् || १४ ।। प्रशान्तात्मा विगतभीब्रह्मचारित्रते स्थिरः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ १५ ॥ युञ्जन्नेत्रं सदात्मानं मद्भक्तोऽनन्यमानसः । शान्ति निर्वाणपरमो मसंस्थामधिगच्छति ॥ १६ ॥ - योगीत्यादि अधिगच्छतीत्यन्तम् । आत्मानं च, चित्तं च; युज्जीत, एकाग्रीकुर्यात् । सततमिति न परिमितं कालम् । एकाकित्वादिषु सत्सु एतद्युज्यते नान्यथा । आसनस्थैर्यात् कालस्थैर्ये चित्तस्थैर्यम् । चित्तक्रिया संकल्पात्मानः अन्या- 1. S, B,N कायसमुद्धारक: 2. B, N युञ्जीत 3, S, B कालस्थैर्यम्