106 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता इत्यादि । दुःखसंयोगस्य वियोगो यतः, स च निश्चयेन आस्ति- कताजनितया श्रद्धया सर्वथा योक्तव्यः अभ्यसनीयः । अनि- विण्णम् उपेयप्राप्ती; दृढतरं संसारं दुःखबहुलम् प्रति निविण्णं बा! चेतो यस्य ॥ २१-२४ ॥ कामानां त्यागे उपाय: संकल्पत्याग इत्याह- संकल्पप्रभवान् कामांस्त्यक्तुं (?) सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ २५ ॥ शनैः शनैरुपरमेद् बुद्धया धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंश्चिदपि चिन्तयेत् ॥ २६ ॥ संकल्पेति । शनैः शनैरिति । मनसैव, न व्यापारोपर- मेण । धृति गृहीत्वा क्रमात् ऋपमभिलाषदुःखं प्रतनूकृत्य, किं- चिदपि विषयाणां त्यागग्रहणादिकं न चिन्तयेत् । - " यत्तु अन्यैर्व्यायातम् नकिश्चिदपि चिन्तयेत्' इति, तन्नास्मभ्यं रुचितम् । शून्यवादप्रसंगात् ॥ २५-२६ ॥ न च विषयव्युपरममात्रमेव प्राध्यमित्युच्यते- यतो यतो निचरति मनश्चञ्चलम स्थिरम् । ततस्ततो नियभ्यैतदात्मन्येव वशं नयेत् ॥ २७ ॥ प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २८ ॥ 1. S,N omit ar 2. S.B, N कामानामुपायत्यागे 3. S,B omit न 4. S यथात्वन्यैर् ; B यथा तु कंश्चिद्
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१६७
दिखावट