पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

88 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता यत्सांख्यैः प्राप्यते स्थानं तद्योगैरनुगम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥ ५ ॥ सांख्ययोगाविति । यत्सौख्यैरिति । इदं सौख्यं, अयं च योगः इति न भेद । एतौ हि नित्यसंबद्धौ । ज्ञानं च योगेन विना, योगोऽपि व तेन विनेति । अत एकत्वमनयोः ॥ ४५ ॥ संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो सुनिर्ब्रह्म न चिरेणाधिगच्छति ॥ ६ ॥ संन्यासस्त्विति । तु शब्दः अवधारणे भिन्नक्रमः । योग- रहितस्य संन्यासमाप्तुं दुःखमेव; प्राङ्नीत्या कर्मणां दुःखसंन्या- सत्वात् । योगिभिस्तु सुलभमेवैतत् इत्युक्तं प्राक् ॥ ६ ॥ योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः | सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥ नैव किंचित्करोमीति युक्तो मन्येत तत्ववित् । पश्यच्छृण्वन् स्पृशञ्जिघन् अइनन् गच्छन् स्वपञ्छ्वसन् ||८|| प्रलपन् विसृजन गृह्णन्नुन्मिपन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥ ब्रह्मण्याघाय कर्माणि संगं त्यक्त्वा करोति यः । लिप्यते स न पापेन पद्मपत्रमिवांभसा ॥ १० ॥ कायेन मनसा बुद्धया केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति संग त्यक्त्वात्मसिद्धये ॥ ११ ॥ 1. S सौख्यज्ञानम् 2. S,B,N दुःसंन्यासस्वात्