पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्चमोऽध्यायः 89 योगयुक्त इत्यादि आत्मसिद्धये इत्यन्तम् । सर्वभूता- नामात्मभूतः आत्मा यस्य, स सर्वमपि कुर्वाणो न लिप्यते, धकरणप्रतिषेधारूढत्वात् । अत एव दर्शवादीनि कुर्वन्नपि असौ एवं धारयति, प्रतिपत्तिदाढचेंन निश्चिनुते 'चक्षुरादीनामिन्द्रि- याणां यदि स्वविषयेषु प्रवृत्तिः, ऊस किमायातम् ? न हि अन्यस्य कृतेनापरस्य ! लेपः' इति । तदेव ब्रह्मणि कर्मणी समर्पणम् । अव चिह्नम् अस्य गतसङ्गता । अतो न लिप्यते । योगिनश्च केवलैः सङ्गरहितैः परस्परानपेक्षिभिश्च कायादिभिः कुर्वन्ति कर्माणि, सङ्गाभावात् ॥ ७-११ ॥ युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ १२ ॥ युक्त इति । नैष्ठिकीम् अपुनरावर्तिनीम् ॥ १२ ॥ सर्वकर्माणि मनसा सन्यस्यास्ते सुखं वशी। नवद्वारे पुरे देही नैव कुर्वन् न कारयन् ॥ १३ ॥ सर्वेति । यथा वेश्मान्तर्गतस्य पुंसो न गृहगतैर्जीर्णत्वा- दिभिः योगः, एवं मम चक्षुरादिच्छिद्रगवाक्षनवकालंकृतदेहगेह- गतस्य न तद्धर्मयोगः ॥ १३ ॥ यतः - न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥ 1. S अन्यस्य कृतेनान्यस्य; B अन्यकृतेन परस्य