पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चनुर्थोऽध्यायः 81 'सर्व कर्माखिलम्' (श्लो. ४-३३) इति यदुक्तं तरस्फुट- यितुं प्रथमश्लोकेन 'अधर्मोऽपि नश्यति' इति वदन् 'सर्वं कर्म' इति द्वितीयेन संस्कारलेशोऽपि चावतिष्ठतीति सूचयत् 'अखि- लम्' इति व्याचष्टे- अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्व ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥ यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥ अपि चेदिति । यथेति । सुसमिद्धोऽभ्यासजातप्रतिपत्ति- दाढर्थ बन्धेन ज्ञानाग्निर्भवति यथा, तथा प्रयतनीयमिति [भावः] ॥ ३६-३७ ॥ न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८ ॥ नहीति। पवित्वं हि ज्ञानसमं नास्ति । अन्यस्य संवृद्धया पविद्यत्वं, न वस्तुत इत्यतिप्रसंगभयात् न प्रताय्यते । पविद्वत्वं चास्य स्वयं ज्ञास्यतीति सुबुद्धतायाम् ॥ ३८ ॥ श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परी शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥ 1. K omits सु 2. K (n) संवृत्या 3. S, K पवित्रताम् 4. S स्वप्रबुद्धतायाम् पीता. 6