पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

82 श्रीमडूनवद्गीता गीतार्थसंग्रहोपेशा अज्ञथाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४० ॥ श्रद्धावानिति । अझ इति । अव च श्रद्धागमः तत्पर- व्यापारत्वं [च] झगित्येव, आस्तिकत्वात् असंशयत्वे सति, उत्प द्यते । तस्मादसंशयवता गुर्वागमादृतेन भाष्यम्, संशयस्य सर्व- नाशकत्वात्; संसंथयो हि व किश्चिज्जानाति, अश्रद्दधानत्वात् । तस्मात् निःसंशयेन भाव्यम् इति वाक्यार्थः । ३९-४० ॥ सकलाध्याय विस्फारितोऽर्थः श्लोकद्वयेन संक्षिप्य उच्यते- योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् । [आत्मवन्तं न कर्माणि निषघ्नन्ति धनञ्जय ४१॥ योगेति । योगेनैव कर्मणां संन्यास उपपद्यते नान्यथा इति विचारितं विचारयिष्यते च ॥ ४१ ॥ यत एवम् 2- तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः । छिन्वैवं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४२ ॥ ॥ इति श्रीमद्भगवद्गीतायां चतुर्थोऽध्यायः ॥ तस्मादिति । संशयं छित्त्वा योगं कर्मसु कौशलम् उक्त- क्रमेण आतिष्ठ। ततश्च उत्तिष्ठ, त्वं स्वव्यापारं कर्तव्यतासा- त्रेण कुर्विति ॥ ४२ ॥ ॥ शिवम् ॥ 1. K संक्षिप्यते 2. Somits मत एवम्