श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता श्रेयानिति । द्रव्ययज्ञात् केवलात् ज्ञानदीपितो यज्ञः श्रेष्ठ । केवलता मयटा सूचिता । यतः सर्वं कर्म ज्ञाने निष्ठा- मेति ॥ ३३ ॥ 80 तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते तवं(?) ज्ञानिनस्तत्वदर्शिनः ॥ ३४ ॥ यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भृतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥ तद्विद्धीति । यज्ज्ञात्वेति । तच्च ज्ञानं, प्रणिपातेन भक्त्या, परिप्रश्नेन ऊहापोहतर्कवितर्कादिभिः, सेवया अभ्यासेन जानीहि । यतः एवंभूतस्य तव ज्ञानिनः निजा एव संवित्ति- विशेषानुगृहीता इन्द्रियविशेषाः तत्त्वम् उप समीपे देक्ष्यन्ति प्रापयिष्यन्ति । तथाहि ते तत्त्वमेव दर्शयन्तीति तत्त्वदर्शिनः । उक्तं हि - 'योग एव योगस्योपाध्यायः' इति । 'ऋतंभरा तत्व प्रज्ञा' (YS, I, 48) इति च । 'अन्ये ज्ञानिनः पुरुषा' इति व्याख्यायमाने भगवान् स्वयं [यत्] उपदिष्टवान् तदसत्यमित्युक्तं स्यात् । [अथवा] एव- मभिधाने प्रयोजनम् 'अन्येऽपि लोकाः प्रणिपातादिना ज्ञानि- भ्यो ज्ञानं गृह्णीयुः न यथाकथंचित्' इति समयप्रतिपादनम् । आत्मवि मयि, मत्स्वरूपतां याते आत्मनि इति सामा- नाधिकरण्यम् । अथोशब्दः पादपूरणे । आत्मना ईश्वरस्य साम्ये कोऽपि विशेष उक्तः । असाम्ये विकल्पार्थानुपपत्तिः ॥ ३४-३५ ॥ 1. S. अभिधानेन च 2. S, K प्राप्ते
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१४१
दिखावट