पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः 79 कम मृत मुपभुञ्जाना अपि यथेच्छं संसृज्यन्ते ब्रह्मतयेति । तदुपरम्यते अतिरहस्यस्फुटप्रकटनवाचालतायाः । अत्र बहुतरो रहस्यरसः अन्तःसंलीनीकृतोऽपि निबिड- तरभक्ति सेवासम्प्रसादित गुरुचरण संप्राप्त संप्रदायमहौषधसमीकृ- तधातूनां चर्वणादिविषयता भूतार्थास्वादहेतुतां च प्रतिपद्यते । अब व्याख्यान्तराणि टीकाकारै: प्रदर्शितानि । तानि अस्मद्गुरुपादनिरुक्तानि च स्वयमेव सचेतसः संप्रधार्यन्ता- मिति किमन्येत + हन्त व्याख्यातृवचनदूषणाविनोदनेन । तदुप- क्रान्तमेवोपक्रम्यते ॥ ३१ ॥ एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान्विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥ एवमिति । सर्वे च एते यज्ञा ब्रह्मणो मुखे द्वारे उपायत्वे कथिताः । तेषु कर्मणामनुगमोऽस्तीत्येवं ज्ञात्वा त्वमपि बन्धना- मोक्षमेष्यसि ॥ ३२ ॥ अन त्वयं विशेष:- श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः परंतप । सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥ 1. B,N भुज्जाना इति यथेच्छम् 2. S,B, N गुरुवचन सं- 3. B प्रतिपाद्य ते 4. Bomits किमन्येन 5. S -पगम्य ते