पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मागम 76 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता श्रोवादीनीति । अन्ये तु संयमाग्निष्विन्द्रियाणीति | संयमः मनः, तस्य ये अग्नयः प्रतिपन्नभावभाववारूपा अभि- लाषप्लोषका विस्फुलिङ्गाः तेषु इन्द्रियाणि अर्पयन्ति । अत एव ते तपोयज्ञाः । इतरे ज्ञानपरिदीपितेषु फलदाहकेषु इन्द्रियाग्निषु विषयानर्पयन्ति; भेदवासनानिरासायैव भोगानभिलषन्ति इत्युपनिषत् । तथाच मयंव लध्ध्यां प्रक्रियायामुक्तम्- 'न भोग्यं व्यतिरिक्तं हि भोक्तुस्त्वत्तो विभाव्यते । एष एव हि भोगो यत् तादात्म्यं भोक्तृभोग्ययोः ॥' इति स्पन्देऽपि 2- 'भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ' इति ॥ २६ ॥ सर्वाणीन्द्रिय कर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगायौ जुह्वति ज्ञानदीपिते ॥ २७ ॥ द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ २८ ॥ सर्वाणीति । द्रव्ययज्ञा इति । ते च सर्वाचिन्द्रियव्यापा- न्, मानसान् [ व्यापारान्], मुखनासिकानिर्गमन मूवाद्यधो- नयनादीन् वायवीयांश्च आत्मनो मनसः संयमहेतौ योगनाम्नि 1. K भोगवासना- 2. B omits स्पन्देsपि and the succeeding hemi- stitch. 3. B,N मनसश्च