पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः 77 ऐकाग्रचवह्नौ सम्यग्ज्ञानपरिदीपिते! पूरयितव्ये निवेशयन्ति । गृह्यमाणं विषयं संकल्प्यमानं वा तदेकाग्रतयैव परित्यक्तान्य- व्यापारया बुद्धया गृह्णन्ति इति तात्पर्यम् । तदुक्तं शिवोप- निषद- 'भावेऽत्यक्ते' निरुद्धा चित् नैव भावान्तरं व्रजेत् । तदा तन्मध्यभावेन विकसत्यति भावना॥'(विज्ञानभैरव, 62) इति । एवं योगयज्ञाः व्याख्याताः ॥ २७-२८ ॥ एवं द्रव्ययज्ञः तपोयज्ञो योगयज्ञश्चोक्तलक्षणाः । स्वा: ध्यायज्ञानयज्ञाश्च ये ते संप्रति लक्ष्यन्ते - अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥ अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ।। ३० ।। अपाने इति । अपरे इति । प्राणम् उदयमानं' नादं? प्रणवादिमातालयान्तम् अपाने अस्तं याति स्वानन्दान्तः प्रवेशा- 1. B परिबोधिते 2. B,N तत्परित्यक्तान्य- 3. S, B, N भावे त्यक्ते 4. B, N चेत् 5. K तन्मयभावेन 6. B, N उदीयमानम् 7. S, Bomit नादम् 4494