पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥ 01 इन्द्रियाणि दैवमेवेति । अपरे देवानि क्रीडनशीलानि आश्रित्य यः स्थितो यज्ञो निजवि ग्यग्रहणलक्षणः, तमेव परितः उपासते, आमूलाद्विमृशन्ते, स्वात्मलाभं लभन्ते । अत एव ते योगिनः सर्वावस्थासु सततमेव योगयुक्तत्वात् । नित्ययोगे ह्यत्वायं मत्वर्थीयः [इनि: ] | एनमेव च विषयग्रहणात्मकं यज्ञं यज्ञेनैव तेनैव [उक्त ] लक्षणेन अपरे पूरयितुमशक्ये ब्रह्माग्नो जुह्वति इति कैश्चित् व्याख्यातम् । 75 मुनेस्तु पौर्वापर्याविरुद्धत्वात् योऽर्थ [तस्य ] हृदि स्थितः तं प्रकाशयामः । केचिद्योगयुक्ताः सन्तो देवं नानारूपेन्द्रादिदेव- तोद्देशेनैव बाह्यद्रव्यमयं यज्ञमुपाचरन्ति । तं च क्रियमाणमेव यज्ञं [यज्ञेन] कर्तव्यमिदमित्येव बुद्धया फलानपेक्षया अपरे, दुष्पूरे ब्रह्माग्नौ अर्पयन्तीति द्रव्ययज्ञा अपि परं ब्रह्म यान्ति । यतो वक्ष्यते 'सर्वेऽप्येते यज्ञविदः' इति (गीता ४.३०) श्रुतिरपि 'यज्ञेन यज्ञमयजन्त देवाः' (ऋ. सं. X, 164,50) इति ॥ २५ ॥ श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ २६ ॥ 1. Kफीडाशीलानि 2. S -पेक्षितया 3. B omits परम्