पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

74 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता हविः तत् ब्रह्मणि परमबोधे प्रशान्ते अग्न; ब्रह्मणा येन केन- चित् कर्मणा, हुतं तद्दीप्त्यभिवृद्धये समर्पितम् इति ईदृशं ब्रह्म- कर्मैव समाधिः यस्य योगिनः तेन ब्रह्मैव गन्तव्यं ज्ञेय नान्यत्' किञ्चित्; अन्याभावात् । यदि वा तदर्थेन यदर्थाक्षेपात् एवं संबन्धः- यत् खलु ब्रह्म- स्वरूपेण यजमानेन ब्रह्माग्नौ ब्रह्महविहुतं ब्रह्मणि (णे१) ब्रह्म- स्वभावदेवतोद्देशेन अर्पणं यस्य तत्; एवंभूतं यत् ब्रह्मकमें तदेव समाधि: आत्मस्वरूप लाभोपायत्वात्; तेन ब्रह्मकर्म समाधिना नान्यत् फलमवाप्यते अपि तु ब्रह्मैव इति । 'ये यथा मां प्रपद्यन्ते' इति निर्वाहितम् । मितस्वरूपीकृतमदात्मक- यज्ञस्वभावा इति तादृशफलभागिन इत्यन्यत् । अपरिमितपरि- पूर्ण मदात्मक यज्ञस्वरूपवेदिनस्तु कथं परिमितफललवलपिट्य- भागिनो भवेयुरिति तात्पर्यम् इति । अनेन श्लोकेन वक्ष्यमाणैश्च श्लोकैः परमं रहस्यमुप- निबद्धम् । तच्च स्माभिमितबुद्धिभिरपि यथाबुद्धि यथागुर्वाम्नायं च विवृतम् । मुखसंप्रदायक्रममन्तरेण नैतन्नभश्चितमिव चित्त- मुपारोहति इति व वयमुपालम्भनीयाः । अव कैश्चित् हविषः अग्नेः करणानां च स्रुगादीनां क्रिया- याच ब्रह्म विशेषणत्वमित्युक्तम् ; तदुपेक्ष्यमेव । तेषां रहस्य- सप्रदायक्रमे' अक्षुण्णत्वात् ॥ २४ ॥ 1. B नान्यदपि 2. : Bomits स्वरूप 3. B, K इत्युक्तम् 4. S अब हविषः ....... 5. S संप्रदाये ... मिति कैश्चिदुक्तम्