श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता वस्तुतस्तयोः समानकालिकत्वात् इति दर्शितं भवति । अथवा ज्ञावं नाशयति इति शेषपूरणम्; ज्ञानमावृत्य मोहं जनयन्तेव ज्ञानं नाशयत्यपि इत्यत्न तात्पर्यम् ॥ 64 श्लो. ४६ (मू) प्रजहिहि इति । प्रपूर्वकात ओ हाक् त्यागे इति जुहोत्यादेर्धातोः लोटि मध्यमपुरुषैकवचने 'ईहल्यघो:' 'जहातेश्र्च' (PA, VI, iv,113, 116) इति वैकल्पिके ईत्वे प्रज- हिहि प्रजहीहि इति रूपद्वयम् । प्रजहिहि इत्येकपदपाठ एवा- चार्याभिप्रेतः । अत एव त्यज इति न गृह्णीयात् इति चार्थं वर्ण- यति । यदि प्रजहि हि इति विभागोऽभिमतः तदा 'हम्यात्' इति व्याख्येयं स्यात् । ... अथवेत्यादि । ज्ञानस्य धीशब्दवाच्यस्य अन्तःकरणात्म- कमनोरूपत्वं 'काम: संकल्पः - धीर्भीरित्येतत् सर्वं मन एव' ( Br. U. I, v, 3) इत्युपनिषत्प्रसिद्ध मित्यभिप्रेत्य ज्ञायते अने- नेति ज्ञानमिति करणव्युत्पत्ति मनसि कृत्वा च व्याचष्टे - ज्ञानेन मनसा इति । एवं विज्ञानपदस्य विशिष्टान्तःकरण- परत्वात् आह - विज्ञानेन बुद्धया इति । एवं च पूर्वतनश्लोके- नैकवाक्यता । किं च मनसः संकल्पविकल्पात्मकत्वात् बुद्धेश्व निश्चयात्मकत्वाच्च उक्तमर्थ पिण्डीकृत्य दर्शयति संकल्पे न गृह्णीयात् इति, न निश्चिनुयात् इति च ॥ - .. श्लो. ४७-४८ (व्या) शत्रुलक्षणात् विषयात् इति । पूर्वं 'यथा चक्षुषा शत्रुर्दृष्टः' इत्यत्वोपदशितरीत्या अवापि दृष्टिपथं गतो यः शत्रुः तदात्मकात् विषयादित्यर्थः ॥
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१२५
दिखावट