तृतीयोऽध्यायः 65 श्लो. ४७-४८ (व्या) क्रोधेन कथं मनसो बुद्धेरात्मनो वा क्षोभ इत्यादि । ननु 'काम एष क्रोध एष' इति पद्ये (III, 37 ) कामक्रोधयोरुभयोरपि वैरित्वे स्पष्टतया प्रतिपादितेऽपि किमि- त्याचार्य: 'क्रोध एव पापदायी' (III, 37) इति, ••-मोघः श्रमो भवति क्रोधवस्य' (42) इति, 'चक्षुषा शत्रौ दृष्टे क्रोध आत्मानं जनयति .... मोहं जनयन् ज्ञानं नाशयति (45) इति, 'क्रोधादिकमिन्द्रियादिषु प्रथमं व गृह्णीयात्' (46) इति, तथा प्रकृतेऽपि 'क्रोधेन कथम् - क्षोभः' इति क्रोधस्यैव प्रकृतत्वं शत्रुत्वं च मन्यते; यदा श्रीशङ्करभास्कररामकण्ठादयः काम- क्रोधयोरुभयोरपि शत्रुत्वमङ्गीकृत्यैव व्याख्यानमारचयन्ति ? इति कदाचिद्भवेच्छङ्का शिष्यस्य । तामपाकरिष्णुराचार्यो रह- स्यमाह - रहस्यविदामित्यादि । अवायमभिप्राय: - खण्डितः काम एव क्रोधीभवतीति निश्चप्रचम् | यस्य चानुभव: 'सर्वमहम्' इति स कामयते सर्वमिति तदीयकामः आत्मकामः सन् परा- हन्तारूप: सर्वदा सर्वत्र सर्वथा च खण्डनशून्यः न कदापि क्रोधत्वेन परिणमते । वक्ष्यति च 'काम इच्छा संवि न्मावरूपा, यस्या घटपटादिभिर्धर्मरूपैर्नास्ति विरोधः । इच्छा हि सर्वत्र भगवच्छक्तितया अन्यायिनी व क्वचिदपि विरुध्यते तदुपासकतया शुद्धसंवित्स्वभावत्वं ज्ञानिन' इत्यादि (VII, 11 ) । तथा च वस्तुगत्या कामो न वैरीभवति । क्रोधस्तु परिमितस्य कामस्य खण्डताज्जायमानो वैरीभवत्येव । वस्तुतस्तु कामस्य परिमितत्वम् अवच्छिन्नत्वं कामितवस्तुभिन्नेषु द्वेषात्मक- शत्रुप्रयुक्तमेव । औदासीन्यमपि 'सर्वमहम्' इति पराहन्ताप्रति गीता- 5 ..... ....
पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१२६
दिखावट