पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः 63 मेव भोजनादी लौकिके व्यवहारे प्रवर्तते इति हृदयं प्रकृत- श्लोकस्येति रमणीयः पन्था आचार्योपदर्शितः । श्रीशङ्कराचार्य- भास्कररामकण्ठादयस्तु अस्य पद्यस्याश विषयत्वम् अर्धप्रबुद्ध विषयत्वं वेत्यभिप्रेत्य व्याचख्युः ॥ श्लो. ३७ (व्या) महस्य इति । मह इत्यकारान्तो यद्यपि उत्सवार्थक, 'मह उद्धव उत्सवः' इत्यमरात (I, vii, 38 ) । तथापि उत्सबजन्ये सुखे लक्षणा इत्याशयेन व्याचष्टे महस्य सुखस्य इति । 'महतः सुखस्याशनः' इत्यपपाठ इव; 'महदशन' इत्यापत्तेः; महच्छन्दस्य सुखार्थकत्वाप्रसिद्धेश्च | महतः पापस्य हेतुत्वात् इति । तथा च महत् पाप्म यस्मात् स महापाप्मा इति विग्रहः ॥ श्लो. ३९ (व्या) इन्द्रियेष्विति । इदं चैवं ज्ञापयितीव- प्रकृतगीतापद्ये द्वितीयपादे इन्द्रियेषु इत्येव आचार्य: पपाठेव इति । रामकण्ठाद्यभिमतपाठस्तु इन्द्रियैः सह इति । वर्तमानः प्रवर्त- घावः ॥ श्लो. ४१ (मू) मोहयंस्तु इति । तुः एवार्थे । श्लो. ४५ (व्या) यथा चक्षुषा इत्यादि । यथा चक्षुषा शत्रौ दृष्टे इन्द्रियप्रदेशे एव क्रोध आत्मानं जनयति इति तात्पर्यार्थः । मोहं जनयन् ज्ञानं नाशयति इति । तथा च मूले आवृत्य इत्यनेन ज्ञानावरणमोहनयोः पूर्वापरकालिकत्वमविवक्षितम्;