पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

60 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. ३ (व्या) मया तु सा एकैव निष्ठा उक्ता इति । अनेनेदं सूचितमिव - प्रकृतगीतापद्ये द्वितीयपादं प्रायश: 'पुरै- कोक्ता मयानघ' इति तत्समानमन्यद्वा आचार्य: पपाठेति । राम- कण्ठोऽपि व्याचख्यौ मया एकैव निष्ठा उक्ता' इति । आनन्दवर्धनच 'द्विविधा द्वौ विधौ साधनप्रकारौ यस्याः सा एकैव प्रकारद्वयाख्या मयोक्ता इत्यन्वयः' इत्याह । परन्तु 'पुरा प्रोक्ता मयानघ' इत्येव सर्वत्र पाठो दृश्यते । अत्रेदं बोध्यम्- द्विविधा निष्ठा एकैवेति कुत्रोक्तं भगवता पूर्वमिति न स्पष्टी- कृतमाचर्येण । अथवा द्वितीयाध्यायस्थचत्वारिंशः श्लोको मनसि कृतस्तेन, यत्र च 'एषा तेऽभिहिता सांख्ये बुद्धियोंगे यथा शृणु इति पाठमादृत्य व्याख्यातं तेन ॥ श्लो. १२ (अ) अपवर्गे -लामे इति सप्तमीद्वयं 'चर्मणि द्वीपी हतः' इत्यादाविव निमित्तात् कर्मयोगे बोध्यम् । तथा च अपवर्गाय, तथा यावत्यः सिद्धयः तावतीना लाभाय च इत्यर्थः । (व्या) भावा विषया इति । अनेनेदं ज्ञायते यत् प्रकृत- गीताश्लोकप्रथमपादे 'इष्टान् भावान्' इति पपाठेवाचार्यः इति । रामकण्ठस्तु 'इष्टान् कामान्' इति पठतीव। सार्वत्रिक पाठस्तु 'इष्टान् भोगान्' इत्येव । सुखोपायमिति । क्रियाविशेषणमिदं प्रेप्स्यति इत्यनेनान्वेति ॥