पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः 59 इन्द्रियाणीति । एवमिति । यत 'इन्द्रियाणि शत्रुलक्ष- णात् विषयात् अन्यानि, तेभ्यश्चान्यत् मनः, तस्मादपि बुद्धे- व्यंतिरेकः, बुद्धेरपि यस्यान्यस्वभावत्वं स आत्मा । एवमिन्द्रि- योत्पन्नेन क्रोधेन कथं मनसः बुद्धेरात्मनो वा क्षोभ' इति पर्या- लोचयेत् इत्यर्थः । --- रहस्यविदां त्वयमाशय: 1 बुद्धेः यः परत्न वर्तते परोऽहं- कार: 'सर्वमहम्' इत्यभेदात्मा स खलु परमोऽभेदः । अत एव च परिपूर्णस्य खण्डनाभावात् न क्रोधादय उत्पद्यन्ते । अतः परमहंकारं परमोत्साहं संविदात्मकं गृहीत्वा क्रोधमविद्या- त्मानं शत्रुं जहि इति ॥ ४७-४८ ॥ || शिवम् ॥ अन संग्रहश्लोक:- धनाति दारान् देहं च योऽन्यत्वेनाधिगच्छति । किं नाम तस्य कुर्वन्ति क्रोधाद्याश्चित्तविभ्रमाः ॥ इति श्रीमहामाहेश्वराचार्यवर्याभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे तृतीयोऽध्यायः ॥ 1. 2. 3. 4. - N ह्ययमाशयः S, B, N उदयन्ते K परोत्साहसंवि- S नानुगच्छति