पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

58 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपैता ततो मनसि संकल्पे; ततो बुद्धौ निश्चये एतद्वारेण मोहं जन- यन् ज्ञानं नाशयति ॥ ४५ ॥ अस्य निवारणोपायमाह - तस्मात् त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहिलेनं ज्ञानविज्ञाननाशनम् ॥ ४६॥ तस्मादिति । तस्मादादौ इन्द्रियाणि विममयेत् । क्रोधा- दिकं इन्द्रियेषु प्रथमं न गृह्णीयात् । ज्ञानं ब्रह्म [ज्ञानं] विज्ञानं च भगवन्मयीं क्रियां नाशयति यतः, अत: 2 पाप्मानं क्रोधं त्यज । अथवा ज्ञानेन मनसा विज्ञानेन बुद्धचा च नाथनं वारणं कृत्वा इति क्रियाविशेषणम् । इन्द्रियेषु उत्पन्नं संकल्पे न गृह्णी- यात् संकल्पितं बा न निश्चिनुयात् इति तात्पर्यस् । ४६ ॥ अन युक्तिं श्लोकद्वयेताह'- इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४७ ॥ एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४८ ॥ ॥ इति श्रीमद्भगवद्गीतायां तृतीयोऽध्यायः ॥ 1. 2. B. S, B पापम् 4. Somits श्लोकद्वयेन B,N,K हि, यतः S omits अतः